सर्वे धनस्य चिन्तां कुर्वन्ति।
= सभी धन की चिन्ता करते हैं ।
सर्वे व्यवसायस्य चिन्तां कुर्वन्ति।
= सभी व्यवसाय की चिंता करते हैं।
सर्वे शरीरस्य चिन्तां कुर्वन्ति।
= सभी शरीर की चिन्ता करते हैं
सर्वे पदस्य चिन्तां कुर्वन्ति ।
= सभी पद की चिन्ता करते हैं
सर्वे संतत्याः चिन्तां कुर्वन्ति।
= सभी संतति की चिंता करते हैं ।
संस्कृतस्य चिन्तां कः / का करोति..?
= संस्कृत की चिंता कौन करता है..?
बहु न्यूनाः जनाः ।
= बहुत कम लोग ।
सः मम मातुलः अस्ति ।
= वह मेरे मामा हैं ।
अहं मम मातुलम् आह्वयामि ।
= मैं अपने मामा को बुलाता हूँ ।
मातुलेन सह अहं यज्ञम् करोमि ।
= मैं मामा के साथ यज्ञ कर रहा हूँ
मम मातुलाय पायसं रोचते ।
= मेरे मामा को खीर पसन्द है ।
मम मातुलात् अहं संस्कृतज्ञानं प्राप्नोमि ।
= मेरे मामा से मैं संस्कृत ज्ञान प्राप्त करता हूँ ।
मम मातुलस्य गृहं मुंबई नगरे अस्ति ।
= मेरे मामा का घर मुंबई में है ।
अहं मातुले स्निह्यामि ।
= मैं मामा जी को प्यार करता हूँ ।
प्रातःकाले एव सङ्गीतं श्रृणोति ।
= सुबह सुबह संगीत सुन रहे हो ।
तदपि चलचित्रस्य गीतम् !!!!
= और वो भी फ़िल्म गाना !!!
एतावत् उच्चै:
= इतना जोर से
भ्रातः ! कृपया अधुना वेदमन्त्रान् श्रृणोतु।
= भाई , कृपया अभी वेद मन्त्र सुनो
नो चेत् , ईशभजनानि श्रृणोतु ।
= अन्यथा ईश्वर के भजन सुनो
आदिनं सुखं प्राप्स्यति ।
= सारा दिन सुख पाओगे।
श्वश्रू: – द्वारे कः अस्ति ?
= दरवाजे पर कौन है ?
स्नुषा – द्वारे धेनुः अस्ति ।
= दरवाजे पर गाय है ।
श्वश्रू: – तस्यै रोटिकां देहि ।
= उसको रोटी दो ।
( किञ्चित् काल अनन्तरम् ।
= कुछ देर बाद )
श्वश्रू: – द्वारे कः अस्ति ?
= दरवाजे पर कौन है ?
स्नुषा – द्वारे भिक्षुकः अस्ति ।
= दरवाजे पर भिक्षुक है ।
श्वश्रू: – तस्मै रोटिकां देहि ।
= उसको रोटी दो ।
( किञ्चित् काल अनन्तरम् ।
= कुछ देर बाद )
श्वश्रू: – द्वारे कः अस्ति ?
= दरवाजे पर कौन है ?
स्नुषा – द्वारे अहम् अस्मि ।
= दरवाजे पर मैं हूँ ।
श्वश्रू: – किं करोषि द्वारे ?
= दरवाजे पर क्या कर रही हो ?
स्नुषा – रोटिका: गृहीत्वा तिष्ठामि ।
= रोटियाँ लेकर खड़ी हूँ।
स्नुषा – यः आगच्छति तस्मै ददामि
= जो आता है उसे दे रही हूँ ।
सास बहू का सम्वाद ।
( हास्यार्थम् )
सः व्यजनं न इच्छति ।
= वह पंखा नहीं चाहता है।
अहं व्यजनं इच्छामि।
= मैं पंखा चाहता हूँ।
सः वातानुकूलम् इच्छति।
= वह ए. सी. चाहता है।
अहं वातानुकूलं न इच्छामि।
= मैं ए. सी. नहीं चाहता हूँ।
वातानुकूलिते वातावरणे मां निद्रा न आगच्छति।
= ए. सी. के वातावरण में मुझे नींद नहीं आती।
व्यजनं चलति तर्हि तं निद्रा न आगच्छति।
= पंखा चलता है तो उसको नींद नहीं आती है ।
अस्तु अहं बहिः शयनं करोमि।
= ठीक है मैं बाहर सोता हूँ ।
प्रकोष्ठात् बहिः तु मषकाः सन्ति।
= कमरे से बाहर तो मच्छर हैं
अन्तः एव शयनं करोमि।
= अंदर ही सोता हूँ।
उत्पीठिका = टेबल
स्वागतकक्षे उत्पीठिका अस्ति।
= स्वागतकक्ष में टेबल है।
उत्पीठिकायां पुष्पाधानी अस्ति।
= टेबल पर फूलदान है
पुष्पाधान्यां पुष्पाणि सन्ति।
= फूलदान में फूल हैं ।
विविधानि पुष्पाणि सन्ति।
= विविध फूल हैं ।
एका बालिका सर्वेषां स्वागतं करोति।
= एक बच्ची सबका स्वागत कर रही है
तस्याः हस्ते एका स्थालिका अस्ति।
= उसके हाथ में एक थाली है।
स्थालिकायां पुष्पाणि , अक्षतं , तिलकं च अस्ति।
= थाली में फूल , अक्षत और तिलक हैं ।
सा बालिका सर्वान् तिलकं करोति।
= वह बच्ची सबको तिलक करती है।
सर्वेषाम् उपरि पुष्पवर्षां करोति
= वह सबके ऊपर पुष्पवर्षा करती है।
सा बालिका स्वस्तिवाचनं गायति
= वह बालिका स्वस्तिवाचन गाती है।
ओं स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्तिः नस्तार्क्ष्यो अरिष्टनेमि: स्वस्ति नो बृहस्पतिः ददातु।
मन्दं मा वद ।
= धीमे मत बोलो ।
सः उच्चै: श्रृणोति ।
= वह ऊँचा सुनता है ।
मन्दं वदिष्यसि चेत् सः न श्रोष्यति ।
= धीमे बोलोगे तो वह नहीं सुनेगा ।
तस्य समीपं गत्वा एव वद ।
= उसके पास जाकर बोलो ।
एकस्यां दुर्घटनायां तस्य श्रवणशक्तिः क्षीणा जाता ।
= एक दुर्घटना में उसकी सुनने की शक्ति कम हो गई ।
सः सर्वम् अवगच्छति ।
= वह सब कुछ समझता है ।
कार्यम् अपि बहु शीघ्रं करोति ।
= काम भी बहुत जल्दी करता है ।
बहु प्रेम्णा वार्तालापं करोति ।
= बहुत प्रेम से बातचीत करता है ।
संस्कृतगीतम् अपि गायति ।
= संस्कृत गीत भी गाता है ।
केवलं तस्य कर्णयोः दोषः अस्ति ।
= केवल उसके दोनों कानों में दोष है ।
तात , भवता प्रेषितं धनं प्राप्तम् ।
= पिताजी आपके द्वारा भेजा धन मिल गया ।
बहु समये एव धनम् आगतम् ।
= बहुत समय पर धन आया ।
श्वः एव परीक्षा-शुल्कं देयम् अस्ति ।
= कल ही परीक्षा फीस देनी है ।
तात ! अधुना तु अन्तिमे वर्षे अस्मि ।
= पिताजी ! अब तो अंतिम वर्ष में हूँ ।
षण्मास अनन्तरं कुत्रापि वृत्तिम् प्राप्स्यामि ।
= छः महीने के बाद कहीं भी काम पा लूँगा
तदनन्तरं भवते कष्टम् न दास्यामि ।
= उसके बाद आपको कष्ट नहीं दूँगा ।
भवान् मम शिक्षार्थम् बहु श्रमं करोति।
= आप मेरी पढाई के लिए बहुत मेहनत करते हैं ।
अहं जानामि भवान् यदाकदा भोजनम् अपि न करोति ।
= मैं जानता हूँ आप कभी कभी भोजन भी नहीं करते हैं ।
एकमेव युतकम् अस्ति भवतः पार्श्वे ।
= एक ही शर्ट है आपके पास ।
अहमपि नूतनं वस्त्रं न क्रीणामि ।
= मैं भी नए कपड़े नहीं खरीदता हूँ ।
अत्र अध्ययनरतः अस्मि ।
= यहाँ पढ़ाई में लगा हूँ ।
श्रेष्ठं परिणामं प्राप्स्यामि ।
= अच्छा परिणाम पाऊँगा ।
तात , अहं भवन्तं बहु स्मरामि ।
= पिताजी , मैं आपको बहुत याद करता हूँ ।
कुतः आगच्छत् ?
= कहाँ से आए ?
इतः एव ।
= यहाँ से ही ।
इतः ! कुतः ?
= यहाँ ! कहाँ से ?
ओह , ततः ….
= ओह , वहाँ से …..
स्पष्टम् किमर्थं न वदसि त्वम् ?
= तुम स्पष्ट क्यों नहीं बोलते हो ?
उद्याने एकं लघु द्वार अस्ति खलु ।
= बगीचे में एक छोटा दरवाजा है न
आम्
= हाँ
ततः एव आगच्छामि ।
= वहीँ से आ रहा हूँ ।
ओह , अहं तु अत्र बृहद् द्वारे अतिष्ठम् ।
= ओह , मैं तो यहाँ बड़े गेट पर खड़ा था ।
तव प्रतीक्षां करोमि स्म ।
= तुम्हारी प्रतीक्षा कर रहा था ।
अग्रे मा गच्छतु |
आगे मत जाओ।
अग्रे मार्ग: अवरोधमस्ति |
आगे रास्ता बंद है।
इदानीम् अहं किं करिष्यामि ?
अब मैं क्या करूँ।
मम समीपे कुशलदूरवाणी अपि नास्ति |
मेरे पास स्मार्टफोन भी नही है।
अधुना मम मार्गदर्शनं क: करिष्यति ?
अब मेरा मार्गदर्शन कौन करेगा?
निरीक्षक: मम प्रतीक्षां कुर्वन् अस्ति |
निरीक्षक मेरी प्रतीक्षा कर रहा है।
मम समीपे एक: एव होरा अस्ति |
मेरे पास एक घंटा ही है।
हम अपने दैनिक संवाद में प्रायः पुकारने का , बुलाने का काम भी किया करते हैं।
जैसे – जरा इधर आना ….
ओ महेश ….. क्या कर रहे हो ?
अरे बेटा , बात मान लो
इस प्रकार के छोटे सम्वाद या सम्बोधन को हम संस्कृत में बोला करें।
हे भ्रातः ! किञ्चित् अत्र आगच्छतु।
= ओ भैया , जरा यहाँ आईये ।
हे महेश ! त्वं किं करोषि ?
= महेश , तुम क्या कर रहे हो ?
पुत्र ! मम वार्तां मन्यस्व ।
= बेटा , मेरी बात मान लो ।
हे माले ! त्वं किमर्थं न खादसि ?
= माला तुम खाना क्यों नहीं खा रही हो ?
वैद्यः अधुना कथं भासते ?
= अब कैसा लग रहा है ?
रुग्णः – आम् अधुना सम्यक् भासते।
= हाँ अब ठीक लग रहा है ।
वैद्यः – अधुना उदरे पीड़ा भवति वा ?
= अभी पेट में दर्द हो रहा है क्या ?
रुग्णः – नैव उदरे पीड़ा तु नास्ति ।
= नहीं पेट में दर्द तो नहीं है ।
रुग्णः – अधुना बुभुक्षा एव न जायते
= अब भूख ही नहीं लगती है ।
वैद्यः – औषधं न खादति वा ?
= औषधि नहीं खाते हो क्या ?
रुग्णः – आम् खादामि ।
= हाँ खाता हूँ ।
रुग्णः – गत सप्ताहे मनचाओ खादितवान् अहम् ।
= पिछले सप्ताह मैंने मनचाओ खाया था ।
रुग्णः – तद् गरिष्ठम् आसीत् ।
= वो भारी था ।
रुग्णः – अतः बुभुक्षा न जायते ।
= इसलिए भूख नहीं लगती है ।
वैद्यः – विकारः नष्टः भविष्यति ।
= विकार नष्ट हो जाएगा ।
वैद्यः – तदनन्तरं बुभुक्षा अवश्यमेव जनिष्यते ।
= उसके बाद भूख अवश्य लगेगी ।
राजेश: – प्रत्यागतवान् ?
= लौट आए ?
किरणः – आम् प्रत्यागतवान् ।
= हाँ लौट आया ।
राजेश: – कदा प्रत्यागतवान् ?
= कब लौटे ?
किरणः – ह्य: रात्रौ ।
= कल रात ।
राजेश: – ह्यः !! कस्मिन् समये ?
= कल !!! किस समय ?
किरणः – रात्रौ सार्ध द्वादशवादने ।
= रात साढ़े बारह बजे।
राजेश: – ओह तदा अहं शयनं करोमि स्म।
= ओह तब मैं सो रहा था।
– दिनेशः अपि आगतवान् वा ?
= दिनेश भी आ गया क्या ?
किरणः – न , दिनेशः तु पूनां गतवान् ।
= नहीं दिनेश तो पूना गया।
राजेश: – दिनेशः कदा आगमिष्यति ?
= दिनेश कब आएगा ?
किरणः – दिनेशः शुक्रवासरे आगमिष्यति।
= दिनेश शुक्रवार को आएगा।
राजेश कल आबू पर्वत गया था ।
= राजेश: ह्यः आबू पर्वतं गतवान् आसीत् ।
सः आर्ष-गुरुकुलम् अगच्छत् ।
= वह आर्ष गुरुकुल गया था
गुरुकुले गुरुः आसीत् ।
= गुरुकुल में गुरु जी थे।
गुरुकुले छात्रा: आसन् ।
= गुरुकुल में छात्र थे ।
( आसीत् = था ।
आसन् = थे । )
गुरुकुले वृक्षाः आसन् ।
= गुरुकुल में वृक्ष थे ।
गुरुकुले यज्ञशाला आसीत् ।
= गुरुकुल में यज्ञशाला थी।
गुरुकुले गोशाला आसीत् ।
= गुरुकुल में गौ शाला थी ।
गोशालायां धेनवः आसन् ।
= गौ शाला में गौएँ थीं ।
राजेश: गुरुकुलस्य आचार्यं मिलितवान् ।
= राजेश गुरुकुल के आचार्य से मिला।
आज रविवार है ।
= अद्य रविवासरः अस्ति।
अद्य अवकाशः अस्ति।
= आज अवकाश है ( छुट्टी है। )
आज लोग मौज मनाएँगे।
= अद्य जनाः आमोदप्रमोदं करिष्यन्ति ।
आज लोग विश्राम भी करेंगे।
= अद्य जनाः विश्रामम् अपि करिष्यन्ति ।
रविवासरे संस्कृतदिनं रूपेण आचरणीयम्
= रविवार को संस्कृत दिन के रूप में मनाना चाहिये।
यावत् शक्यं तावत् संस्कृतभाषायामेव वक्तव्यम् ।
= जितना हो सके उतना संस्कृत में ही बोलना चाहिये।
प्रतिरविवासरः संस्कृतवासरः ।