મંત્રો


નાદ સિદ્ધાંત પ્રમાણે: પદાર્થ કેવળ વૈશ્વિક ધ્વનિનું સંયોજન છે. 
સર્વાચીન ભૌતિક વિજ્ઞાન પ્રમાણે: આખું બ્રહ્માંડ કંપનો અને સ્પંદનો થી બનેલું છે.
વિશિષ્ટ સ્પંદન આવર્તન વાળા ધ્વનિબંધારણ ને મંત્ર કહે છે. 
“मन्त्राधिनस्तु: देवता:” દેવતાઓ મંત્રને અધીન છે.
બે હાથને ઘસવાથી ગરમી આવે તેમ મંત્રોચ્ચારથી પણ ઉર્જા ઉત્પન્ન થાય છે, શરત બે છે. 
1. સ્પષ્ટ અને શુદ્ધ ઉચ્ચારણ (માચીસનો ઊંધો છેડો ગમે તેટલો ઘસો, ઉર્જા નહિ આવે).
2. ભક્તિ / ભાવનાનો પ્રાણવાયુ (શૂન્યાવકાશમાં માચીસ ઘસો, ઉર્જા નહિ આવે).
પરંતુ મંત્રોની અસર તમારા દ્વારા કરવા માટે તમારે એના સુવાહક (સુપાત્ર) બનવું પડે. અમુક મંત્રો સિદ્ધ કરવા પડતા હોય છે જેને માટે અમુક જાપ કરવા પડે. ઘણા મંત્રો સામાન્ય પણે સિદ્ધ હોય છે, પરંતુ તે હસ્તગત ન કહેવાય. તેને માટે તેનું નિયમિત પણે રટણ જોઈએ.
આપણી ભારતીય સમૃદ્ધિ અનેક મંત્રોનો વારસો ધરાવે છે.  આપણે (ગમે તેટલું લાગે તો પણ) ક્યારેય એકલા નથી. આસપાસ દેવી દેવતાઓ અપરોક્ષ રીતે વિદ્યમાન છે. સંસ્કૃત ભાષાના મંત્રો તેઓ સમજે છે.

વૈદિક રાષ્ટ્રગીત (વેદકાલીન રાષ્ટ્રગાન)

आ ब्रह्मन् ब्राह्मणो बह्मवर्चसी जायतामा राष्ट्रे राजन्यः शूर इषव्योSति व्याधी महारथो जायतां दोग्ध्री धेनुर्वोढानड्वानाशुः सप्तिः पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायतां निकामे-निकामे नः पर्जन्यो वर्षतु फलवत्यो न ओषधयः पच्यन्तां योगक्षेमो नः कल्पताम् ||

[शुक्ल यजुर्वेद – २२.२२, देवता = लिङ्गोत्क्त, छन्द = उत्कृति]

હે બ્રહ્મન (પરમાત્મા)! અમારા દેશમાં યજ્ઞ અધ્યયન શીલ બ્રાહ્મણો ઉત્પન્ન થાય તથા ક્ષત્રિય પરાક્રમી થાય. બાણોમાં કુશળ શત્રુભેદનશીલ તથા મહારથી (એક એક સહસ્ત્ર મનુષ્યોના જેતા) ઉત્પન્ન થાય. દૂધ આપનારી ધેનુઓ પણ અમારા રાષ્ટ્રમાં ઉત્પન્ન થાય.  વહનશીલ વૃષભ અને શીઘ્રગામી અશ્વ ઉત્પન્ન થાય. સર્વગુણ સંપન્ન શરીર ધારક નારીઓ હોય. રથમાં સ્થિત યુયુત્સુ (યુદ્ધ લડી લેવા ઇચ્છનાર) નર જય શીલ થાય. યજમાનના યુવા (સમર્થ) અને સભામાં યોગ્ય વીરપુત્ર ઉત્પન્ન થાય. અમારા રાષ્ટ્રમાં પર્જન્ય (મેઘ) કામના થવા પર વર્ષણ કરે. અમારી ઐષધીઓ ફલયુક્ત થઇ સ્વયં પચે એવી થાય, તથા અમને ઉપલબ્ધી નો લાભ અને લબ્ધ નું પરિપાલન થાય.


નિત્ય બોલવાના મંત્રો 


સવારે ઉઠીને હથેળીઓના દર્શન કરી બોલવાનો મંત્ર  – 
कराग्रे वसते लक्ष्मी करमध्ये सरस्वती |  करमूले स्थितो ब्रह्मा प्रभाते कर दर्शनम्  ||  

પથારીમાંથી ઉઠીને જમીન ઉપર પગ મૂકતી વખતે બોલવાનો મંત્ર  – 
समुद्र वसने देवी पर्वतस्तन मण्डले | विष्णुपत्नी नमस्तुभ्यं पादस्पर्शं क्षमस्वमे ||

પ્રાપ્ત: સ્મરણના મંત્રો – 
બ્રહ્મનું સ્મરણ 
प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं सच्चित्सुखं परमहंसगतिं तुरीयम् |

यत्स्वप्नजागरसुषुप्तिमवैति नित्यं तद्ब्रह्म निष्कलमहं न च भूतसङ्घः ||
શ્રી ગણેશજીનું સ્મરણ 
प्रातः स्मरामि गणनाथमनाथ बंधुम् सिंदूरपूर परिशोभित गंडयुग्मम् |

उद्दंडविघ्न परिखंडन चंडदंडम् आखंडलादि सुरनायक वृन्द वंद्यम् ||
શ્રી રામચંદ્રજી નું સ્મરણ 
प्रातः स्मरामि रघुनाथ मुखारविन्दं मन्दस्मितं मधुरभाषि विशालभालम् ।
कर्णावलम्बिचलकुण्डल शोभिगण्डं कर्णान्तदीर्घनयनं नयनाभिरामम् ||
શ્રી વિષ્ણુ સ્મરણ 
प्रातः स्मरामि भवभीतिमहार्तिनाशं नारायणं गरुड़वाहनमब्जनाभम् ।

ग्राहाभिभूतवरवारणमुक्तिहेतुं चक्रायुधंतरुणवारिजपत्रनेत्रम् ||

મહાદેવજી નું સ્મરણ 

प्रातः स्मरामि भवभीतिहरं सुरेशं गङ्गाधरं वृषभवाहनमम्बिकेशम् |

खट्वाङ्गशूलवरदाभयहस्तमीशं संसाररोगहरमौषधमद्वितीयम् ||
દેવીનું સ્મરણ 
प्रातः स्मरामि शरदिन्दु करोज्ज्वलाभां सद्रत्नवन्मकरकुण्डल हार भूषाम् |

दिव्यायुधोर्जित सुनील सहस्रहस्तां रक्तोत्पलाभ चरणां भवतीं परेषाम् ||
સૂર્ય ભગવાનનું સ્મરણ 
प्रातः स्मरामि खलु तत्स वितुर्वरेन्यम रूपंहिमंडल मृचोथतनुर्यजूंषी |
सामानि यस्य किरणः प्रभवादिहेतुं ब्रह्मा हरात्मकमलक्ष्यमचिंत्यरूपं ||
નવ ગ્રહોનું સ્મરણ 
ब्रह्मा मुरारी त्रिपुरांतकारी भानु शशि भूमि सुतो बुधश्च गुरुश्च शुक्रः शनि राहु केतवः 
सर्वे ग्रहाः शान्ति करा भवन्तु।
આદિ શંકરાચાર્યનું સ્મરણ 
शङ्करं शङ्कराचार्यं केशवं बादरायणं । सूत्रभाष्य कृतौ वंदे भगवंतौ पुनः पुनः ||
ઋષિમુનિઓનું સ્મરણ 
भृगुर्वसिष्ठ: क्रतुरङ्गिराश्च मनु: पुलस्त्य: पुलहश्च गौतम: |

रेभ्यो मरीचिश्च्यवनश्च दक्ष: कुर्वन्तु सर्वे मम सुप्रभातम् ||
પુણ્યશાળી આત્માઓનું સ્મરણ 
प्रह्लाद नारद पराशर पुण्डरीक व्यासाम्बरीश शुक शौनक भीष्म दाल्भ्याम् |

रुक्मान्गदार्जुन वसिष्ठ विभीषणादिं पुण्यानिमान परमभागवतांस्मरामि ||
સનત કુમાર ઇત્યાદિ 
सनत्कुमार: सनक: सनन्दन: सनातनोऽप्यासुरिपिङ्गलौ च |
सप्त स्वरा: सप्त रसातलानि कुर्वन्तु सर्वे मम सुप्रभातम् ||
સપ્તર્ષિ, ચૌદ લોક ઇત્યાદિ 
सप्तार्णवा: सप्त कुलाचलाश्च सप्तर्षयो द्वीपवनानि सप्त ।

भूरादिकृत्वा भुवनानि सप्त कुर्वन्तु सर्वे मम सुप्रभातम् ||
પંચ મહાભૂતાદિ 
पृथ्वी सगन्धा सरसास्तथाप: स्पर्शी च वायुर्ज्वलितं च तेज: ।

नभ: सशब्दं महता सहैव कुर्वन्तु सर्वे मम सुप्र भातम् ||
પ્રાપ્ત: સ્મરણ મહાત્મ્ય
इत्थं प्रभाते परमं पवित्रं पठेत्स्मरेद्वा श्रृणुयाच्च तद्वत् ।

दुःस्वप्ननाशस्त्विह सुप्रभातं भवेच्च नित्यं भगवत्प्रसादात् ||
नवनागनामस्तोत्रम् (પ્રાપ્ત: કાળે અને સંધ્યા-કાળે કરવું) – 
अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलम् । शङ्खपालं धार्त्रराष्ट्रं तक्षकं कालियं तथा ॥ १॥ 
एतानि नवनामानि नागानां च महात्मनाम् । सायङ्काले पठेन्नित्यं प्रातःकाले विशेषतः ॥ २॥ 
तस्य विषभयं नास्ति सर्वत्र विजयी भवेत् ॥ ३॥ ॥ 
इति श्रीनवनागनामस्तोत्रम् सम्पूर्णम् ॥
द्वादश ज्योतिर्लिंग स्तोत्रम् (પ્રાપ્ત: કાળે અને સંધ્યા-કાળે કરવું) – 
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्। उज्जयिन्यां महाकालमोङ्कारममलेश्वरम्॥ 
परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम्। सेतुबन्धे तु रामेशं नागेशं दारुकावने॥ 
वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे। हिमालये तु केदारं घुश्मेशं च शिवालये॥ 
एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः। सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥ 
एतेशां दर्शनादेव पातकं नैव तिष्ठति। कर्मक्षयो भवेत्तस्य यस्य तुष्टो महेश्वराः॥

હનુમાનજી ના બાર નામ (પ્રાપ્ત: કાળ, મધ્યાહને , સંધ્યા કાળે  અને રાત્રીએ કરવું) – 
श्री हनुमानजी 
श्री अंजनी सुनु 
श्री वायु पुत्र 
श्री महाबल 
श्री रामेष्ठ 
श्री फाल्गुण सख 
श्री पिंगाक्ष
श्री अमित विक्रम 
श्री उदधिक्रमण
श्री सीता शोक विनाशन 
श्री लक्ष्मण प्राण दाता 
श्री दशग्रीव दर्पहा


सूर्य स्तोत्र 
શરીર, સંપત્તિ વધારનાર અને ખ્યાતિ વધારનાર સ્તોત્ર માટે. ત્રણેય જગતમાં તેની ખ્યાતિ છે. જે વ્યક્તિ સૂર્યના ઉદય અને સાંજે બંને સમયે આ સ્તોત્ર દ્વારા ભગવાન સૂર્યની પ્રશંસા કરે છે તે બધા પાપોથી મુક્ત છે.
विकर्तनो विवस्वांश्च मार्तण्डो भास्करो रविः।
लोक प्रकाशकः श्री माँल्लोक चक्षुर्मुहेश्वरः॥
लोकसाक्षी त्रिलोकेशः कर्ता हर्ता तमिस्रहा।
तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः॥
गभस्तिहस्तो ब्रह्मा च सर्वदेवनमस्कृतः।
एकविंशतिरित्येष स्तव इष्टः सदा रवेः॥

સવારે ખાલી પેટે ગો-મૂત્રનું સેવન કરતી વખતે બોલવાના મંત્રો  – 
ॐ गौभ्य: नम: ॐ वृषभाय नम: ॐ गोभूतये नम: ॐ गोसंस्कृत्येेै नम: ॐ कवल्यै नम: 
ॐ सुरभये नम: ॐ कपिलायैै नम: ॐ कामधेनवे नम: ॐ सुन्दयैँ नम: ॐ तेजस्विन्यै नम: 
ॐ ऐश्वयँवत्यै नम: ॐ पंचगव्याय नम: ॐ कल्याण्यैै नम: ॐ जीवनदात्र्यै नम: 
ॐ पापनाशिन्यै नम: ॐ अमृतायै नम: ॐ अन्नदात्र्यै नम: ॐ पयस्विन्यै नम: 
ॐ धरास्वरूपायै नम: ॐ आरोग्यदात्र्यै नम: ॐ ओजस्विन्यै नम: ॐ आयु:प्रदात्र्यै नम: 
ॐ वंशदायिन्यै नम: ॐ वत्सलायै नम: ॐ तारिकायै नम: ॐ दिव्यायै नम: ॐ अध्न्यायै नम: 
ॐ वसुधारिकायै नम: ॐ सूयँस्वरूपायै नम: ॐ रूद्रस्वरूपायै नम: ॐ परमतत्त्वस्वरूपायै नम: 
ॐ सवाँत्मने नम:

દાંત સાફ કરતી વખતે બોલવાનો મંત્ર – 
ह्रीं आयुर्बलं यशो वर्च: प्रजा: पशुवसूनि च | ब्रह्मप्रज्ञां च मेघां च त्वं नो देहि वनस्पते ||

સ્નાન સમયે (મનમાં) બોલવાનો મંત્ર  – 

गंगा सिन्धु सरस्वती च यमुना गोदावरी नर्मदा | कावेरी सरयू महेंद्रतनया चर्मण्वती वेदिका ||

क्षिप्रा वेगवती महासुरनदी ख्याता गया गंडकी | पूर्णापूर्णजलै: समुद्र सहिता कुर्यात् सदा मङ्गलम् ||

જમતા પહેલા બોલવાના મંત્રો  – 

|| अन्नपूर्णे सदापूर्णे शंकरप्राणवल्लभे ज्ञान वैराग्यसिध्ध्यर्थं भिक्षान्देहि च पार्वति || 

|| अन्नाद्भवति भूतानि पर्जन्यादन्यसंभव: यज्ञाद्भवति पर्जन्यो यज्ञकर्म समुद्भव || 

|| ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम्। ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना || 

||अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रित: । प्राणापानसमायुक्त: पचाम्यन्नं चतुर्विधम् ||

ॐ सहनाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥ 

ॐ शान्तिः शान्तिः शान्तिः

ઘરની બહાર નીકળતી વખતે બોલવાના મંત્રો (ઝઘડો નહિ થાય અથવા રુદ્ર સ્વરૂપ નહિ થાય) – 
विवादे विषादे प्रवासे प्रमादे जले चानले पर्वते शत्रु मध्ये |   

अरण्ये शरण्ये सदा मां प्रपाहि गतिस्वं गलिस्त्वं त्वमेका भवानि || 

[चण्डीपाठ, भवान्यष्टकम् – 7]


શયન વખતે બોલવાના મંત્રો  – 

कायेन वाचा मनसेन्द्रियैर्वा बुध्यात्मना वा प्रकृतिस्वभावात् | 
करोमि यध्यत् सकलं परस्मै नारायणायेति समर्पयामि || 

करचरण कृतं वाक्कायजं कर्मजं वा । श्रवणनयनजं वा मानसं वापराधं । 
विहितमविहितं वा सर्वमेतत्क्षमस्व । जय जय करुणाब्धे श्रीमहादेव शम्भो ॥ 

त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव । 
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव ॥


કર્મ કાંડને લાગતા મંત્રો 

ગુરુને નમસ્કાર – 
गुरुर्ब्रह्मा ग्रुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः ||
સર્વત્ર જળનો છંટકાવ કરી પવિત્રીકરણ કરતી વખતે બોલવાનો મંત્ર  – 
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ||
જજમાનને તિલક કરતી વખતે બોલવાનો મંત્ર – 
तिलक - वैदिक मंत्र  -
स्वस्तिन इन्द्रो वृद्धश्रवा: स्वस्तिन: पूषा विश्व वेदा: । 
स्वस्तिन स्त्ताक्षोँSअरिष्टनेमि: स्वस्तिनो बृहस्पति र्दधातु ।।
तिलक  - पौराणिक मंत्र -
हृीँ स्वस्तिस्तु पाविनी साक्षात् धर्मकल्याण वृद्धिदा। 
विनायक प्रिया नित्यं तां च स्वस्तिं ब्रुवन्तुनः।।
 ~
જજમાનને નારાછડી બાંધતી વખતે બોલવાનો મંત્ર – 
 यजमान – कंकण बन्धनं – वैदिक मंत्र  –
ऊंँ यदा बध्नन्दाक्षायणा हिरण्य(ग्गूं)शतानीकाय सुमनस्यमाना:। 
तन्मSआ बध्नामि शतशारदा यायुष्मान् जरदृष्टि र्यथासम् ।।
यजमान – कंकण बन्धनं – पौराणिक मंत्र –
हृीँ येन बध्दो बलीराजा दानवेन्द्रो महाबल । तेन त्वामपि बध्नामि रक्षे मा चल मा चल ।।
यजमान पत्नी - कंकण बंधन - वैदिक मंत्र  -
ऊँ तंपक्त्नी भिरनुगच्छेमदेवा: पुत्रैभाँतृभीरुतवा हिरण्यै:। 

नाकं गृभ्णाना: सुकृतस्य लोकेतृतीये पृष्ठेSअधिरोचने दिवः ।।
यजमान पत्नी - कंकण बन्धनं - पौराणिक मंत्र - 
हृीँ पत्नी वामकरे सूत्रं बध्वा सौख्यं धनागमम् । 
बहुसम्पत्तिमारोग्यं रक्षार्थे कंकणं शुभम् ।।
નવું શુભ કર્મ શરુ કરતા પહેલા બોલાતા મંત્રો (ભદ્રં સૂક્ત, દેવતા નમસ્કાર) – 
ભદ્રં સૂક્ત – 
आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः । देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे-दिवे ॥ देवानां भद्रा सुमतिर्ऋजूयतां देवानां रातिरभि नो नि वर्तताम् । देवानां सख्यमुप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे ॥ तान् पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम् । अर्यमणं वरुणं सोममश्विना सरस्वती नः सुभगा मयस्करत् ॥ तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत् पिता द्यौः । तद् ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शृणुतं धिष्ण्या युवम् ॥ तमीशानं जगतस्तस्थुषस्पतिं धियंजिन्वमवसे हूमहे वयम् । पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पुषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः । अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह ॥ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥ अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः । विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम ॥ [ऋक॰१।८९।१-१०]
ॐ द्यौ: शान्तिरन्तरिक्षँ शान्ति: पृथ्वी शान्तिराप: शान्तिरोषधय: शान्ति:। वनस्पतय: शान्तिर्विश्वे देवा: शान्तिर्ब्रह्म शान्ति: सर्वँ शान्ति: शान्तिरेव शान्ति: सा मा शान्तिरेधि॥

यतो यतः समिहसे ततो नो अभयं कुरु । शंन्नः कुरु प्राजाभ्यो अभयं नः पशुभ्यः। सुशांतिर्भवतु।

ॐ शान्ति: शान्ति: शान्ति:
દેવતા નમસ્કાર – 
श्रीमन महागणाधिपतये नमः

इष्ट देवताभ्यो नमः
कुल देवताभ्यो नमः
ग्राम देवताभ्यो नमः
स्थान देवताभ्यो नमः 
वास्तु देवताभ्यो नमः
वाणीहिरण्यगर्भाभ्यां नमः
श्री लक्ष्मीनारायणाभ्यां नमः
श्री उमामहेश्वराभ्यां नमः
शचीपुरन्दराभ्यां नमः
मातपितृचरण कमलेभ्यो नमः
सर्वेभ्यो देवेभ्यो नमः
सर्वेभ्यो ब्राह्मणेभ्यो नमो नमः
निर्विघ्नमस्तु
~
ॐ सुमुखश्चैकदंतश्च कपिलो गजकर्णकः| लम्बोदरश्च विकटो विध्ननाशो विनायकः| धूम्र केतुर्गणाध्यक्षो भालचन्द्रो गजाननः| द्वादशैतानि नामानि यः पठेत्छुणुयादपि| विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा| संग्रामे संकटेचैव विध्नतस्य न जायते| शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजं| प्रसन्नवदनं ध्यायेत् सर्व विध्नोपशान्तये| अभिप्सितार्थ सिध्यर्थं पूजितो यः सुरा-सुरैः| सर्व विध्नहरस्तस्मै गणाधिपतये नमः|
~
सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके | शरण्ये त्र्यम्बके गौरी नारायणि नमोस्तु ते ||
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् | येषां ह्रदिस्थो भगवान्मङ्गलायतनोहरि: ||
~
तदेवलग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव | विद्याबलं दैवबलं तदेव लक्ष्मीपते तेSङ्घ्रियुगं स्मरामि ||
~
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजय: | येशामिन्दीवरश्यामो ह्रदयस्थो जनार्दन: ||
यत्र योगेश्वरो कृष्ण: यत्र पार्थो धनुर्धर: | तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ||
~
सर्वेश्वारब्ध कार्येषु त्रयस्त्रि भुवनेश्वरा: | देवा दिशन्तु न: सिद्धिं ब्रह्मेशानजनार्दना: ||
विनायकं गुरुं भानुं ब्रह्मविष्णुमहेश्वरान् | सरस्वतीं प्रणम्यादौ सर्वकार्यार्थसिद्धये ||

~


સંકલ્પ – 

ॐ विष्णु: विष्णु: विष्णु: 

श्रीमद् भगवतो महापुषस्य विष्णोराज्ञया प्रवर्तमानस्य 

अद्य 

श्री ब्रह्मणोनि 

द्वितीय परार्धे 

श्री श्वेत्वाराह्कल्पे 

सप्तमे वैवस्वतमन्वन्तरे 

अष्टाविंशतितमे 

कलियुगे कलि प्रथमचरणे 

शालिवाहन शके 

अस्मिन् वर्तमाने 

भूर्लोके जम्भूद्विपे भरतखण्डे भारतवर्षे आर्यावर्तान्तर्गत क्षेत्रे 

अमुक नाम संवत्सरे 

उत्तरायणे / दक्षिणायने 

अमुक ऋतौ 

संमन्गल्यप्रदे शुभकारिक पुण्य पवित्रे मासोत्तमे अमुक मासे 

शुक्ल पक्षे / कृष्ण पक्षे 

अमुक तिथौ 

अमुक वासरे 

अमुक नक्षत्रे 

अमुक योगे 

अमुक करणे 

अमुक राशि स्थिते चन्द्रे 

अमुक राशि स्थिते श्री सूर्ये 

शुभ्र राशि स्थिते देव गुरौ 

शेषेषु यथायथं स्थितेषु सत्सु 

एवं ग्रहगुण विशेषेण विशिष्टायां 

शुभ पुण्य तिथौ 

अमुक गोत्रोत्पन्नोSहं 

अमुक प्रवरान्वितोSहं 

अमुक वेद आन्तर्गतो 

अमुक शाखाध्यायि 

अमुक नाम पिता तस्य पुत्र: 

अमुक नाम राशि 

अमुक नाम शर्मा (ब्राह्मण = शर्मा, क्षत्रिय = वर्मा, वैश्य = गुप्ता, शुद्र = दास) 

मम आत्मन: श्रुति स्मृति पुराणोक्त फ़ल् प्राप्तियर्थं 

परमेश्वर प्रीत्यर्थं च 

पूजनमहं 

करिष्ये

ध्यान – 
नमोऽस्त्वनन्ताय सहस्त्रमूर्तये सहस्त्रपादाक्षिशिरोरु बाहवे ।

सहस्त्रानाम्ने पुरुषाय शाश्वते सहस्त्र कोटी युगद्यारिणे नमः ॥

ॐ श्री અમુક દેવતાય नमः । ध्यानार्थे पुष्पाणि समर्पयामि ।
आवाहन –
ॐ सहस्त्रशीर्षा पुरुष : सहस्त्राक्ष : सहस्त्रपात् ।

स भूमि सर्वत स्पृत्वाऽत्यातिष्ठा द्दशाङ्गुलम् ॥

आगच्छ भगवन् देव स्थाने चात्र स्थिरो भव : ।

यातव् पूजा करिष्यामि तावत् त्वं संनिधौभव ॥

ॐ श्री અમુક દેવતાય नमः आवाहनार्थे पुष्पं समर्पयामि ।
आसन –
ॐ पुरुष एवेद् सर्वं यद्भूतं यच्च भाव्यम् उतामृत त्वस्येशानो यदन्नेनाति रोहति ॥
अनेक रत्न संयुक्तं नानामणि गणान्वितम् ।

भावित हेममयं दिव्यमासनं प्रतिगृह्यताम् ॥

आसनार्थे पुष्पाणि समर्पयामि ।

पाद्यं –
ॐ एतावानस्य महिमातो ज्यायांश्च पुरुष : ।

पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥

गङ्गोदकं निर्मलं च सर्वसौगन्ध्य संयुतम् ।

पाद प्रक्षालनार्थाय दत्तं मे प्रतिगृह्यताम् ।

पादयो पाद्यं समर्पयामि ।

अर्घ्य –
ॐ त्रिपादूर्ध्व उदैत्पुरुष : पादो स्येहाभवत् पुन : ।

ततो विष्वङ्ग व्यक्रामत्साशनानशने अभि ॥

गन्ध पुष्पाक्षतै र्युक्तमर्घ्यं सम्पादितं मया ।

गृहाणार्घ्य मया द्त्तं प्रसन्नो वरदो भव ॥

हस्तयोरर्घ्यं समर्पयामि ।

आचमन –
ॐ ततो विराड जायत विराजो अधि पुरुष : ।

स जातो अत्यरिच्यत पश्चाद्‌भूमि मथो पुरु : ॥

कर्पूरेणं सुगन्धेन वासितं स्वादु शीतलम् ।

तोयमाचमनीयार्थं गृहाण परमेश्वर ॥

मुखे आचमनीयं जलं समर्पयामि ।
स्नान –
ॐ तस्मद्यज्ञात् सर्वहुत : सम्भृतं पृषदाज्यम् ।

पशूस्ताश्चक्रे वायव्यानारण्या ग्राम्याश्चये ॥

मन्दाकिन्यास्तु यद् वारि सर्वपापहरं शुभम् ।

तदिदं कल्पित देव स्नानार्थं प्रतिगृह्यताम् ॥

स्नानीय जलं समर्पयामि । स्नानाङ्ग आच०
स्नानान्ते आचमनीयम् जलं समर्पयामि ।
दुग्ध स्नानं –
ॐ पय : पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धा : ।

पयस्वती : प्रदिश : सन्तु मह्यम् ॥

कामधेनु समुद्भूतं सर्वेषां जीवनं परम् ।

पावनं यज्ञहेतुश्च पय : स्नानार्थमर्पितम् ॥

पय : स्नानं समर्पयामि ।

शुद्धोदक जल स्नानंसमर्पयामि ।

दधि स्नानं –
ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिन : ।

सुरभि नो मुखा करत्प्र ण आयू षि तारिषत् ।

पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् ।

दध्यानीतं मया देव स्नानार्थं प्रतिग्रह्यताम् ॥

दधि स्नानं समर्पयामि ।

शुद्धोदक जल स्नानंसमर्पयामि ।

घृत स्नानं –
ॐ घृत घृतपावान : पिबत वसां पसापावान : पिबतान्तरिक्षस्य हविरसि स्वाहा : ।

दिश : प्रदिश आदिशो विदिश उद्दिशो दिग्भ्य : स्वाहा ।

नवनीत समुत्पन्नं सर्व संतोष कारकम् ।

घृत तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥

घृत स्नानं समर्पयामि ।

शुद्धोद्कं जल स्नानं समर्पयामि ।

मधु स्नानं –
ॐ मधुवाता ऋतायते मधुक्षरन्ति सिन्घव : ।

माघ्वीर्न : सन्त्वोषधी : ॥

मधु नक्तमुतोषसो मधुमत्पार्थिव रज : ।

मधु घौरस्तु न : पिता ॥

मधुमान्नो वनस्पतिर्मद्युमाँ २ अस्तु सूर्य : ।

माध्वीर्गावो भवन्तु नः ॥

पुष्परेणु समुत्पन्नं सुस्वादु मधुरं मधु ।

तेज : पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥

मधु स्नानं समर्पयामि ।

शुद्धोद्कं जल स्नानं समर्पयामि ।

शर्करा स्नानं –
ॐ अपा रसमुद्वयस सूर्ये सन्त समाहितम् ।

अपा रसस्य यो रसस्तं वो गृह्याम्युत्तममुपयाम – गृहीतोऽसीन्द्राय त्वा जुष्टं गृह्वाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ।

इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम् ।

मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम् ॥

शर्करा स्नानं समर्पयामि । शुद्धोद्कं जल स्नानं समर्पयामि ।
पंञ्चामृत स्नानं –
ॐ पञ्च नद्य : सरस्वतीमपि यन्ति सस्त्रोतस : ।

सरस्वती तु पञ्चद्या सो देशेऽभवत्सरित् ॥

पयो दधि घृतं चैव मधु शर्करायान्वितम् ।

पंचामृतं मयानीतं स्नानार्थं प्रतिगृह्यताम् ॥

पंञ्चामृत स्नानं समर्पयामि / शुद्धजलं समर्पयामि ।
गन्द्योदक स्नानं –
अ शुना ते अ शु : पृच्यतां परुषा परू : ।

गन्धस्ते सोममवतु मदाय रसो अच्युत : ॥

मलयाचल सम्भूत चन्दनेन विमिश्रितम् ।

इदं गन्द्योदक स्नानं कुङ्कुमाक्तं नु गृह्यताम् ॥

गन्द्योदक स्नानं समर्पयामि ।

शुद्धोदक स्नानं –
शुद्धवाल : सर्व शुद्धवालो मणिवालस्त आश्विना : श्येत : श्येताक्षो ऽरुणस्ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरूपा : पार्जन्या : ।
शुद्धं यत्सलिलं दिव्यं गङ्गाफल समं स्मृतम् ।

समर्पितं मया भक्त्या शुद्ध स्नानाय गृह्यताम् ॥

शुद्धोदक स्नानं समर्पयामि ।

वस्त्रं –
ॐ तस्माद्यज्ञात् सर्वहुत ऋच : सामानि जज्ञिरे ।

छन्दा सि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥

शीत वातोष्णसंत्रांण लज्जाया रक्षणं परम् ।

देहा लङ्करणं वस्त्रमत : शान्तिं प्रयच्छ में ॥

वस्त्रं समर्पयामि ।

पुन : आचमनीयं जलं समर्पयामि ।

उपवस्त्रं –
उपवस्त्रं प्रयच्छामि देवाय परमात्मने ।

भक्त्या समर्पितं देव प्रसीद परमेश्वरः ॥

उपवस्त्रं समर्पयामि आचमनीयं जलं समर्पयामि ।

यज्ञोपवीत –
ॐ तस्मादश्वा अजायन्त ये के चोभयादत : ।

गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावय : ॥

नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयं |

उपवीतं मया दतं गृहाण परमेश्वर ॥

यज्ञोपवीतं समर्पयामि ।


 पञ्चोपचार – वैदिक व पौराणिक मन्त्र –
गंधम् -
तं यज्ञं बर्हिषि प्रौक्षन् पूरुषं जातमग्रत:|तेन देवाSअयजन्त साध्याSऋषयश्च ये ||
श्रीखण्डं चन्दनं दिव्यं गंधाढ्यं सुमनोहरम् । विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ।। 
चन्दनं समर्पयामि ॥

अक्षत / श्वेत तिल - 
(જો શાલિગ્રામ હોય તો અક્ષત (ચોખા) ની જગ્યાએ સફેદ તલ ચઢાવવા)
ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत । 
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ॥
अक्षताश्च सुरश्रेष्ठ कुंकुमाक्ता : सुशोभिता : । मया निवेदिता भक्त्या गृहाण परमेश्वर ॥ 
अक्षत स्थाने श्वेत तिलं समर्पयामि ।
पुष्पम् -

यत्पुरुषं व्यदधु: कतिधा व्यकल्पयन् | मुखं किमस्यासीत् किं बाहू किमूरू पादाSउच्येते ||
माल्यादीनि सुगन्धीनि मालत्यादीनि भक्तित:। मायाSSहृतानी पुष्पाणि पूजार्थं प्रतिगृह्यताम् ।। 

धूपम् -
ब्राह्मणोSस्य मुखमासीद् बाहू राजन्य: कृत: | ऊरू तदस्य यद्वैश्य: पद्भ्या शूद्रोSअजायत ||
वनस्पतिरसोद्भूतो गंधाढ्यो गंध उत्तम : । आघ्रेय: सर्वदेवानां धुपोSयं प्रतिगृह्यताम् ।। 
धूपमाघ्रापयामि |  

दीपम् -
चन्द्रमा मनसो जातश्चक्षो: सूर्यो अजायत | श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ||
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया। दीपं गृहाण देवेश त्रैलोक्यतिमिरापह ।। 
दीपं दर्शयामि | 
नैवेद्यम् -
नाभ्याSआसीदन्तरिक्ष शीर्ष्णो द्यौः समवर्त्तत | पद्भ्यां भूमिर्दिश: श्रोत्रात्तथा लोकांर्Sअकल्पयन् ||
हृीँ शर्करा खंड खाद्यानि दधिक्षीरघृतानी च । आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ।।
नैवेद्यं निवेदयामि | 
 अखण्ड ऋतुफलं – 
ॐ या फलिनीर्या अफला अपुष्पा याश्च पुष्पिणी : । 
बृहस्पति प्रसूतास्ता नो मुञ्चन्त्व पुरतस्तव । 
तेन में सफला वाप्ति र्भवेञ्जन्मनि जन्मनि ॥ 
अखण्डऋतुफलं समर्पयामि ।
ताम्बूल – 
ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत । वसन्तोवप्यासीदाज्यं ग्रीष्म इध्म : शरद्धवि : ॥
पूगीफलं महद्‌दिव्यं नागवल्लीदलैर्युतम् । एलालवङ्ग संयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ 
एलालवङ्ग पूगीफलयुक्तं ताम्बूलं समर्पयामि ।
दक्षिणा (ભગવાન માટે) – 
ॐ हिरण्य गर्भ: समवर्तताग्रे भूतस्य जात : पतिरेक आसीत् । 
स दाधार पृथिवीं धामुतेमां कस्मै देवाय हविषा विधेम ॥
दक्षिणा प्रेम सहिता यथा शक्ति समर्पिता । 
अनन्तफल दामेनां गृहाण परमेश्वर : ॥ 
द्रव्य दक्षिणां समर्पयामि ।
કોઈ પણ યજ્ઞમાં, અગ્નિ-પૂજન પછી “દ્રવ્ય-ત્યાગ-સંકલ્પ” લેતી વખતે બોલવાનો મંત્ર  – 
मया सम्पादितानि इमानि हवनिय द्रव्याणि या या यक्ष्यमाणदेवता: ताभ्य: ताभ्य: मया परित्यक्तानि न मम | यथा दैवतमस्तु ||
યજ્ઞના ઉત્તરાંગ તબક્કામાં “દ્રવ્ય-ત્યાગ-સંકલ્પ નિવૃત્તિ” વખતે બોલવાનો મંત્ર  – 
आघारादि पूर्णाहुति पर्यन्तँ यस्य यस्य देवतायै यावद् यावद् संख्याकान् यद् यद् द्रव्यै: यावन्त्यो यावन्त्यो आहुतयः सा सा देवता:प्रीयन्तां न मम ।।
કર્મને અંતે જજમાનને કર્મનું શ્રેય / ફળ આપવાનો મંત્ર – 
जपाच्च होमाच्च सुतर्पणाच्च संमार्जनात्ब्राह्मणभोजनाच्च | 
एभिस्तु सम्पादितमस्तु श्रेय: तत्श्रेयसा श्रेयसिनो भवन्तु ||
દેવી / દેવતાઓનો વિસર્જન મંત્ર  – 
अग्नि - ब्रह्मा - अन्य आवाहित देव विसर्जन पौराणिक मंत्र  -
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पंचभिरेव च । हूयते च पुनर्द्वाभ्यां तस्मै यज्ञात्मने नम : ।।

गच्छ गच्छ सुरश्रेष्ठ स्वस्थानं परमेश्वर । यत्र ब्रह्मादयो देवा: तत्र गच्छ हुताशन ।। 

यान्तु देवगणा: सर्वे पूजामादाय मामकीम्। इष्टकाम समृध्यर्थं  पुनरागमनाय च ।।
દક્ષિણા ગ્રહણ કરતિ વખતે બોલાતો મંત્ર – 
~
બ્રહ્મા પૂજન પછી બ્રાહ્મણોનું વરણ પૂજન વખતે નો મંત્ર  – 
नमो ब्रह्मण्य देवाय गोब्राह्मण हिताय च । जगत् हिताय कृष्णाय गोविन्दाय नमो नमः ||
કોઈ આપણા ચરણ સ્પર્શ કરે ત્યારે બોલવાનો મંત્ર – 
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत् ।


સિદ્ધ મંત્રો [ફળ પ્રાપ્તિ માટે ઓછા માં ઓછી રોજ એક માળા]

સિદ્ધ મંત્રો ને વિશિષ્ટ સંસ્કારોની આવશ્યકતા નથી અને શીઘ્ર ફળદાયી છે જયારે સામાન્ય મંત્રોને ફળ આપતા વાર લાગે છે.

પતિના લાંબા આયુષ્ય માટે સ્ત્રીઓએ નિત્ય કરવાનો મંત્ર  – 
उमा उषा च वैदेहि रमा गङ्गेति पार्वति | प्रात: काले स्मरेन्नित्यं सौभाग्यं वर्धते सदा ||
વિપત્તિ વિનાશ માટે જપવાનો મંત્ર –
हृीँ शरणागतदीनार्त परित्राणपरायणे । सर्वस्यार्तिहरे देवि नारायणी नमोSस्तुते ।।
વિપત્તિ વિનાશ અને શુભની પ્રાપ્તિ માટે જપવાનો મંત્ર  – 
करोतु सा न: शुभहेतुरीश्वरी | शुभानि भद्राण्यभिहन्तु चापदः ||
ભય નાશ માટે જપવાનો મંત્ર –
हृीँ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोSस्तु ते ।।

हृीँ एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् । पातु नः सर्वभीतिभ्यः कात्यायनि नमोSस्तुते ।। 

हृीँ ज्वालाकरालमत्युग्र-मशेषासुरसूदनम् । त्रिशूलं पातु नो भीतेर्भद्रकालि नमोSस्तुते ।।
પાપ નાશ માટે જપવાનો મંત્ર –
हृीँ हिनस्ति दैत्यतेजांसी स्वनेनापूर्य या जगत् । सा घंटा पातु नो देवि पापेभ्योSन: सुतानिव ।। 
મહામારી નાશ માટે જપવાનો મંત્ર –
हृीँ जयन्ती मंगला काली भद्रकालि कपालिनी । दुर्गा क्षमा शिव धात्री स्वाहा स्वधा नमोSस्तुते ।।
રોગ નાશ માટે જપવાનો મંત્ર –
रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभिष्टान् । 

त्वामाश्रिता नां न विपन्नाराणां त्वामाश्रिताया ह्याश्रयतां प्रयान्ति ।।
આરોગ્ય અને સૌભાગ્યની પ્રાપ્તિ માટે જપવાનો મંત્ર – 
हृीँ देहि सौभाग्यमारोग्यं देहि मे परमं सुखम् । रूपं देहि जयं देहि यशो देहि द्विषो जहि ।। 
સુલક્ષણા પત્ની માટે જપવાનો મંત્ર – 
हृीँ पत्नीं मनोरमां देहि मनोवृत्तानुसारिणीम् । तारिणीं दुर्गसंसार सागरस्य कुलोद्भवाम् ।। 
બાધા શાંતિ માટે – 
सर्वबाधा प्रशमनं त्रैलोक्यस्याखिलेश्वरि । एवमेव त्वया कार्यमस्मद्दैरिविनाशनम् ।।
બાધામુક્ત બનીને ધન-પુત્રાદિની પ્રાપ્તિ માટે જપવાનો મંત્ર –
सर्वबाधा विर्निर्मुक्तो धनधान्यसुतान्वित:। मनुष्यो मत्प्रसादेन भविष्यति न संशय:।।
સર્વવિધ અભ્યુદય માટે જપવાનો મંત્ર –
ते सम्मता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति धर्मवर्ग: । 

धन्यास्त एव निभृतात्मज भृत्यदारा येषां सदाभ्युदयदा भवती प्रसन्ना ।। 
દારિદ્રય દુઃખાદિ નાશ માટે જપવાનો મંત્ર –
हृीँ दुर्गे स्मृता हरसि भीतिमशेषजन्तो: स्वस्थैःस्मृता मतिमतीव शुभां ददासि। 

दारिद्र्यदु:खभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदाSSर्द्रचित्ता ।।
રક્ષા પ્રાપ્તિ માટે જપવાનો મંત્ર – 
शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके |

घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च ||
સર્વ પ્રકારના કલ્યાણ માટે માટે જપવાનો મંત્ર – 
सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके | शरण्ये त्र्यम्बके गौरी नारायणि नमोस्तु ते ||
વિદ્યામાં અને સ્ત્રીઓમાં માતૃભાવની પ્રાપ્તિ માટે જપવાનો મંત્ર – 
विद्या: समस्तास्तव देवी मेदा: स्त्रिय: समस्ता: सकला जगत्सु | 

त्वयैक्या पूरितमम्बयैतत् का ते स्तुति: स्तव्यपरा परोक्ति: ||
શક્તિ પ્રાપ્તિ માટે જપવાનો મંત્ર  – 
सृष्टिस्थिति विनाशानां शक्तिभूते सनातनि। गुणाश्रये गुणमये नारायणि नमोSस्तुते ||
પ્રસન્નતા માટે જપવાનો મંત્ર – 
प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणि। त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव ||
વિવિધ ઉપદ્રવોથી બચવા માટે જપવાનો મંત્ર  – 
रक्षांसि यत्रो ग्रविषाश्च नागा यत्रारयो दस्युबलानि यत्र। 

दवानलो यत्र तथाब्धिमध्ये तत्र स्थिता त्वं परिपासि विश्वम्॥
સ્વર્ગ અને યુક્તિ માટે જપવાનો મંત્ર – 
नतेभ्य: सर्वदा भक्त्या चण्डिके दुरितापहे। रूपं देहि जयं देहि यशो देहि द्विषो जहि।।
મોક્ષની પ્રાપ્તિ માટે જપવાનો મંત્ર  – 
त्वं वैष्णवी शक्तिरनन्तवीर्या विश्वस्य बीजं परमासि माया। 

सम्मोहितं देवि समस्तमेतत् त्वं वै प्रसन्ना भुवि मुक्तिहेतुः॥
સ્વપ્નમાં સિદ્ધિ – અસિદ્ધિ જાણવા માટે જપવાનો મંત્ર  – 
दुर्गे देवी नमस्तुभ्यं सर्वकामार्थसाधिके | मम सिद्धिमसिध्धिं वा स्वप्ने सर्वं प्रदर्शय ||

 


27 નક્ષત્રો ના વેદિક મંત્રો 

 

अश्विनी नक्षत्र वेद मंत्र:==ॐ अश्विनौ तेजसाचक्षु: प्राणेन सरस्वतीवीर्य्यम वाचेन्द्रो बलेनेन्द्रायदद्युरिन्द्रियम । ॐ अश्विनी कुमाराभ्यो नम: ==5000
 
भरणी नक्षत्र वेद मंत्र:==ॐ यमाय त्वाङ्गिरस्य्ते पितृिमते स्वाहा स्वाहा धर्माय स्वाहा धर्मपित्रे । 10000
 
कृतिका नक्षत्र वेद मंत्र:===ॐ अयमग्नि सहस्रीणो वाजयस्य शान्ति (गुं) वनस्पति: मूर्द्धा कबोरयीणाम् । अग्नये नम: 10000
 
रोहिणी नक्षत्र वेद मंत्र: ===ॐ ब्रहमजज्ञानं प्रथमं पुरस्ताद्विसीमत: सूरुचे वेन आवय: सबुधन्या उपमा अस्यविष्ठा: सतश्चयोनिमसतश्चविध:I ॐ ब्रहमणे नम: ====5000
 
मृगशिरा नक्षत्र वेद मंत्र:====ॐ सोमोधनु (गुं) सोमाअवंतुमाशु (गुं) सोमवीर: कर्मणयंददाती यदत्यविदध्य (गुं) सभेयमपितृ श्रवणयोम। ॐ चन्द्रमसे नम: । 10000
 
आर्द्रा नक्षत्र वेद मंत्र:===ॐ नमस्ते रूद्र मन्यवSउतोत इषवे नम: बाहुभ्यामुतते नम: । ॐ रुद्राय नम: ==10000
 
पुनर्वसु नक्षत्र वेद मंत्र:===ॐ अदितिद्योरदितिरन्तरिक्षमदितिर्माता: स पिता स पुत्र: विश्वेदेवा अदिति: पंचजना अदितिजातिमादितिर्रजनित्वम । ॐ आदित्याय नम: ।==10000
 
पुष्य नक्षत्र वेद मंत्र: ===ॐ बृहस्पते अतियदर्यौ अर्हाद द्युमद्विभाति क्रतमज्जनेषु । यदीदयच्छवस ॠत प्रजात तदस्मासु द्रविणम धेहि चित्रम । ॐ बृहस्पतये नम: ।===10000
 
अश्लेषा नक्षत्र वेद मंत्र:===ॐ नमोSस्तु सर्पेभ्योये के च पृथ्विमनु:। ये अन्तरिक्षे यो देवितेभ्य: सर्पेभ्यो नम: । ॐ सर्पेभ्यो नम:====10000
 
मघा नक्षत्र वेद मंत्र:===ॐ पितृभ्य: स्वधायिभ्य स्वधानम: पितामहेभ्य: स्वधायिभ्य: स्वधानम: । प्रपितामहेभ्य स्वधायिभ्य स्वधानम: अक्षन्न पितरोSमीमदन्त:पितरोतितृपन्त पितर:शुन्धव्म । ॐ पितरेभ्ये नम: ।===10000
 
पूर्वाफाल्गुनी नक्षत्र वेद मंत्र:===ॐ भगप्रणेतर्भगसत्यराधो भगे मां धियमुदवाददन्न: । भगप्रजाननाय गोभिरश्वैर्भगप्रणेतृभिर्नुवन्त: स्याम: । भगाय नम: ।==10000
 
उत्तराफालगुनी नक्षत्र वेद मंत्र:==ॐ दैव्या वद्धर्व्यू च आगत (गुं) रथेन सूर्य्यतव्चा । मध्वायज्ञ (गुं) समञ्जायतं प्रत्नया यं वेनश्चित्रं देवानाम । ॐ अर्यमणे नम: ।==5000
 
हस्त नक्षत्र वेद मंत्र:==ॐ विभ्राडवृहन्पिवतु सोम्यं मध्वार्य्युदधज्ञ पत्त व विहुतम वातजूतोयो अभि रक्षतित्मना प्रजा पुपोष: पुरुधाविराजति । ॐ सावित्रे नम:===5000
 
चित्रा नक्षत्र वेद मंत्र:===ॐ त्वष्टातुरीयो अद्धुत इन्द्रागी पुष्टिवर्द्धनम । द्विपदापदाया: च्छ्न्द इन्द्रियमुक्षा गौत्र वयोदधु: । त्वष्द्रेनम: । ॐ विश्वकर्मणे नम: ।===5000
 
स्वाती नक्षत्र वेद मंत्र:===ॐ वायरन्नरदि बुध: सुमेध श्वेत सिशिक्तिनो युतामभि श्री तं वायवे सुमनसा वितस्थुर्विश्वेनर: स्वपत्थ्या निचक्रु: ।ॐ वायव नम: ==5000
 
विशाखा नक्षत्र वेद मंत्र:===ॐ इन्द्रान्गी आगत (गुं) सुतं गार्भिर्नमो वरेण्यम । अस्य पात घियोषिता । ॐ इन्द्रान्गीभ्यां नम: ।==10000
 
अनुराधा नक्षत्र वेद मंत्र:==ॐ नमो मित्रस्यवरुणस्य चक्षसे महो देवाय तदृत (गुं) सपर्यत दूरंदृशे देव जाताय केतवे दिवस्पुत्राय सूर्योयश (गुं) सत । ॐ मित्राय नम:===10000
 
ज्येष्ठा नक्षत्र वेद मंत्र:==ॐ त्रातारभिंद्रमबितारमिंद्र (गुं) हवेसुहव (गुं) शूरमिंद्रम वहयामि शक्रं पुरुहूतभिंद्र (गुं) स्वास्ति नो मधवा धात्विन्द्र: । ॐ इन्द्राय नम: ।==5000
 
मूल नक्षत्र वेद मंत्र:===ॐ मातेवपुत्रम पृथिवी पुरीष्यमग्नि (गुं) स्वयोनावभारुषा तां विश्वेदैवॠतुभि: संविदान: प्रजापति विश्वकर्मा विमुञ्च्त । ॐ निॠतये नम:==5000
 
पूर्वाषाढ़ा नक्षत्र वेद मंत्र:==ॐ अपाघ मम कील्वषम पकृल्यामपोरप: अपामार्गत्वमस्मद यदु: स्वपन्य-सुव: । ॐ अदुभ्यो नम: ।==5000
 
उत्तराषाढ़ा नक्षत्र वेद मंत्र:==ॐ विश्वे अद्य मरुत विश्वSउतो विश्वे भवत्यग्नय: समिद्धा: विश्वेनोदेवा अवसागमन्तु विश्वेमस्तु द्रविणं बाजो अस्मै ।==10000
 
श्रवण नक्षत्र वेद मंत्र:==ॐ विष्णोरराटमसि विष्णो श्नपत्रेस्थो विष्णो स्युरसिविष्णो धुर्वोसि वैष्णवमसि विष्नवेत्वा । ॐ विष्णवे नम: ।==10000
 
धनिष्ठा नक्षत्र वेद मंत्र:==ॐ वसो:पवित्रमसि शतधारंवसो: पवित्रमसि सहत्रधारम । देवस्त्वासविता पुनातुवसो: पवित्रेणशतधारेण सुप्वाकामधुक्ष: । ॐ वसुभ्यो नम: ।==10000
 
शतभिषा नक्षत्र वेद मंत्र:==ॐ वरुणस्योत्त्मभनमसिवरुणस्यस्कुं मसर्जनी स्थो वरुणस्य ॠतसदन्य सि वरुण स्यॠतमदन ससि वरुणस्यॠतसदनमसि । ॐ वरुणाय नम: ।==10000
 
पूर्वभाद्रपद नक्षत्र वेद मंत्र:==ॐ उतनाहिर्वुधन्य: श्रृणोत्वज एकपापृथिवी समुद्र: विश्वेदेवा ॠता वृधो हुवाना स्तुतामंत्रा कविशस्ता अवन्तु । ॐ अजैकपदे नम:।==5000
 
उत्तरभाद्रपद नक्षत्र वेद मंत्र:==ॐ शिवोनामासिस्वधितिस्तो पिता नमस्तेSस्तुमामाहि (गुं) सो निर्वत्तयाम्यायुषेSत्राद्याय प्रजननायर रायपोषाय ( सुप्रजास्वाय ) । ॐ अहिर्बुधाय नम: । ==1000
 
रेवती नक्षत्र वेद मंत्र:==ॐ पूषन तव व्रते वय नरिषेभ्य कदाचन । स्तोतारस्तेइहस्मसि । ॐ पूषणे नम: । ===10000

 


મંત્ર મય જીવન બનાવો અને તેજસ્વી બનો.